Tuesday 19 January 2016

भवतु में मन: स्वदेशी

भवतु में मन: स्वदेशी
भवतु में तनु: स्वदेशी
यदि प्राणा: गता: त्वपि
शववस्त्रं अपि स्वदेशी
भवतु में मन: स्वदेशी
भवतु में तनु: स्वदेशी !!१!!

यत हस्तेन् अस्ति निर्मित्तम्
स्वीकृतम् निर्धनेभ्य:
पूरित: यस्मिन् स्नेहं
वस्तु तत् स्वदेशी
भवतु में मन: स्वदेशी
भवतु में तनु: स्वदेशी !!२!!

यत् ग्रामे एव निर्मित्तम
ग्रामात् एव अर्जित्तम
सम्यक् स्थापयति ग्रामं
तत् कार्यं अपि स्वदेशी
भवतु में मन: स्वदेशी
भवतु में तनु: स्वदेशी !!३!!

को मानवस्य धर्म:
कष्टानि यत् जानाति
मनावताया: करोति रक्षणं
सा एव वृति: स्वदेशी
भवतु में मन: स्वदेशी
भवतु में तनु: स्वदेशी !!४!!

तनो: वसनं स्वदेशी
विचारा: मनसि स्वदेशी
तदा भवतु ग्रामे-नगरे
राष्ट्रे विस्तृता स्वदेशी
भवतु में मन: स्वदेशी
भवतु में तनु: स्वदेशी!!५!!

पूज्य स्वामी रामदेववर्यस्य स्वदेशीअभियानं समर्पितं एतानि शब्दपुष्पपाणी मया.

जागरणस्य कालः एषः

जागने का वक्त आ गया। स्वामी जी का जो प्रिय क्रांतिकारी गीत रहा है उसका संस्कृत में अनुवाद करने का एक विनम्र प्रयास।
जागरणस्य कालः एषः
एषः कालः एव।
रक्तं अस्ति राष्ट्राय
प्राणाः सन्ति संस्कृताय
जीवनस्य को लाभः
यदि जीवनम् विलासाय
संस्कृतस्य कालः एषः
एषः कालः एव
शृणोतु मृत्वो: पदचापम्
अस्ति जीवनम् अल्पम्
भविष्यति विकास: देशे
"कथम् इति" चिंतयामः
भारतस्य कालः एषः
एषः कालः एव
हतः यो राष्ट्राय गतः
तेन मृत्युः नतः एव
येन संस्कृतिः रक्षिता
राष्ट्रभक्त: स एव
संस्कृत्या: कालः एषः
एषः कालः एव
जागरणस्य कालः एषः
एषः कालः एव