Sunday 11 October 2015

संस्कृतप्रीति: जने-जने

संस्कृतप्रीति: जने-जने
नगरे-नगरे संस्कृतम्
मातुः चरणे शिर: नवामि
यात्किम् अपि पार्श्वे सर्वं अर्प्यामि
संस्कृतभाषा ग्रामे-ग्रामे 
“कथं भवेत्” इति चिन्तयामि
संस्कृतभक्ति: गृहे-गृहे
ग्रामे-ग्रामे संस्कृतम्
संस्कृतप्रीति: जने-जने
नगरे-नगरे संस्कृतम् ।।१।।
गृहे-गृहे संस्कृतं वदेत्
जीवने संस्कृति आगच्छेत्
सर्वेषाम् कृते माता एषा
जीवनदात्री सा भवेत्
संस्कृतशक्ति: गणे-गणे
मनसि- मनसि संस्कृतम्
संस्कृतप्रीति: जने-जने
नगरे-नगरे संस्कृतम् ।।२।।
संस्कृत-भाषा देवभाषा
किमपि न लभते विना तस्या:
जीवने केवलं एकं लक्ष्यम्
“कथं भवेत्” जनभाषा एषा
संस्कृतरीति: आत्मनि आत्मनि
हृदये-हृदये संस्कृतम्
संस्कृतप्रीति: जने-जने
नगरे-नगरे संस्कृतम् ।।३।।
एषा संस्कृतरचना अहम् संवादशालायाम् रचित्वान...

No comments:

Post a Comment